मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
सप्तदशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
तदित्यनभिसन्धाय
फलं
यज्ञतपःक्रियाः
।
दानक्रियाश्च
विविधाः
क्रियन्ते
मोक्षकाङ्क्षिभिः
॥ २५ ॥
तत् इति अनभिसन्धाय, ‘तत्’ इति ब्रह्माभिधानम् उच्चार्य अनभिसन्धाय च यज्ञादिकर्मणः फलं यज्ञतपःक्रियाः यज्ञक्रियाश्च तपःक्रियाश्च यज्ञतपःक्रियाः दानक्रियाश्च विविधाः क्षेत्रहिरण्यप्रदानादिलक्षणाः क्रियन्ते निर्वर्त्यन्ते मोक्षकाङ्क्षिभिः मोक्षार्थिभिः मुमुक्षुभिः ॥ २५ ॥
तदित्यादिना
;
ओंशब्दस्य विनियोगम् उक्त्वा तच्छब्दस्य विनियोगम् आह -
तदित्यादिना
॥ २५ ॥