श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यज्ञे तपसि दाने स्थितिः सदिति चोच्यते
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥
यज्ञे यज्ञकर्मणि या स्थितिः, तपसि या स्थितिः, दाने या स्थितिः, सा सत् इति उच्यते विद्वद्भिःकर्म एव तदर्थीयं यज्ञदानतपोर्थीयम् ; अथवा, यस्य अभिधानत्रयं प्रकृतं तदर्थीयं यज्ञदानतपोर्थीयम् ईश्वरार्थीयम् इत्येतत् ; सत् इत्येव अभिधीयतेतत् एतत् यज्ञदानतपआदि कर्म असात्त्विकं विगुणमपि श्रद्धापूर्वकं ब्रह्मणः अभिधानत्रयप्रयोगेण सगुणं सात्त्विकं सम्पादितं भवति ॥ २७ ॥

प्रकारान्तरेण सच्छब्दस्य विनियोगम् आह -

यज्ञे इति ।

नामत्रयोच्चारणेन साद्गुण्यं सिद्ध्यति इति प्रकरणार्थम् उपसंहरति -

तदेतदिति

॥ २७ ॥