अश्रद्धान्वितस्यापि कर्मणः नामत्रयोच्चारणात् अवैगुण्ये श्रद्धाप्राधान्यं न स्यात् इति आशङ्क्य आह -
तत्र चेति ।
सप्तमीभ्यां प्रकृतं यज्ञादि गृह्यते । सर्वं यज्ञादि सगुणम् इति शेषः ।