श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यथोक्तं कायिकं वाचिकं मानसं तपः तप्तं नरैः सत्त्वादिगुणभेदेन कथं त्रिविधं भवतीति, उच्यते
यथोक्तं कायिकं वाचिकं मानसं तपः तप्तं नरैः सत्त्वादिगुणभेदेन कथं त्रिविधं भवतीति, उच्यते

त्रिविधस्य तपसः यथासम्भवं सात्त्विकादिभावेन तत् त्रैविध्यम् आकाङ्क्षाद्वारा निक्षिपति -

यथोक्तमिति ।

त्र्यधिष्ठानं - देहवाङ्मनोनिर्वर्त्यम् इत्यर्थः । समाहितैः - सिद्ध्यसिद्ध्योः निर्विकारैः इति यावत्

॥ १७ ॥