पूर्वैः अध्यायैः विस्तरेण यतस्ततः विक्षिप्ततया उक्तम् अर्थं सुखप्रतिपत्त्यर्थं सङ्क्षेपेण उपसंहृत्य अभिधातुम् अध्यायान्तरम् अवतारयति -
सर्वस्यैवेति ।
उपसंहृत्य वक्तव्यः इति सम्बन्धः ।
किञ्च उपनिषत्सु यतस्ततः विस्तृतस्य अर्थस्य बुद्धिसौकर्यार्थम् अस्मिन् अध्याये सङ्क्षिप्ताभिधानं कर्तव्यम् , उपनिषदां गीतानां च एकार्थत्वात् इत्याह -
सर्वश्चेति ।
कथं सर्वोऽपि शास्त्रार्थः अस्मिन् अध्याये सङ्क्षिप्य उपसंह्रियते ? तत्र आह -
सर्वेषु हीति ।
ननु वेदार्थश्चेत् अशेषतः अत्र उपसञ्जिहीर्षितः, तर्हि किमिति ‘त्यागेनैके’ ‘संन्यासयोगात् ‘ इति वेदार्थैकदेशविषयं प्रश्नप्रतिवचनम् ? तत्र आह -
अर्जुनस्त्विति ।
पृथक् अनयोः तत्त्वं वेदितुम् इच्छामि इति विशेषणात् अपृथगर्थः तयोः अस्तीति गम्यते । बुभुत्सितस्य प्रष्टव्यत्वात् एकदेशे तद्भावात् उक्तप्रश्नोपपत्तिः इति भावः
॥ १ ॥