ननु पूर्वेषु अध्यायेषु तत्र तत्र संन्यासत्यागयोः उक्तत्वात् किमिति पुनः तौ पृचछ्यते ? ज्ञाते तदयोगात् । तत्राह -
तत्र तत्रेति ।
न निर्लुण्ठितार्थौ - न निष्कृष्टार्थौ न विविक्तार्थौ इत्यर्थः ।
बुभुत्सया प्रश्नस्य प्रवृत्तत्वात् , प्रष्टुः अभिपायं प्रश्नेन प्रतिपद्य भगवान् उत्तरम् उक्तवान् इत्याह -
अत इति ।