श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ २ ॥
काम्यानाम् अश्वमेधादीनां कर्मणां न्यासं संन्यासशब्दार्थम् , अनुष्ठेयत्वेन प्राप्तस्य अनुष्ठानम् , कवयः पण्डिताः केचित् विदुः विजानन्तिनित्यनैमित्तिकानाम् अनुष्ठीयमानानां सर्वकर्मणाम् आत्मसम्बन्धितया प्राप्तस्य फलस्य परित्यागः सर्वकर्मफलत्यागः तं प्राहुः कथयन्ति त्यागं त्यागशब्दार्थं विचक्षणाः पण्डिताःयदि काम्यकर्मपरित्यागः फलपरित्यागो वा अर्थः वक्तव्यः, सर्वथा परित्यागमात्रं संन्यासत्यागशब्दयोः एकः अर्थः स्यात् , घटपटशब्दाविव जात्यन्तरभूतार्थौ

पक्षद्वयोपन्यासेन संन्यासत्यागशब्दयोः अर्थभेदं कथयति -

काम्यानाम् इति ।

तत् किम् इदानीं संन्यासत्यागशब्दयोः आत्यन्तिकं भिन्नार्थत्वम् ? तदा प्रसिद्धिविरोधः स्यात् इति अशङ्क्य अवान्तरभेदेऽपि न आत्यन्तिकभेदः अस्ति इत्याह -

यदीति ।