कर्माधिकृतानां ज्ञाननिष्ठातः विभक्तनिष्ठावत्त्वेन पूर्वोक्तानामपि शास्त्रार्थोपसंहारे पुनः विचार्यत्ववत् ज्ञाननिष्ठानाम् अपि विचार्यत्वम् अत्र अविरुद्धम् इति शङ्कते -
नन्विति ।
साङ्ख्यानां - परमार्थज्ञाननिष्ठानां, न अत्र विचार्यता इति उत्तरम् आह -
न तेषामिति ।
ननु तेषामपि स्वात्मनि क्लेशदुःखादि पश्यतां तदनुरोधेन राजसकर्मत्यागसिद्धेः विचार्यत्वम् ? न इत्याह -
न कायेति ।
तत्र क्षेत्राध्यायोक्तं हेतूकरोति -
इच्छादीनामिति ।
स्वात्मनि साङ्ख्यादीनां क्लेशाद्यप्रतिपत्तौ फलितम् आह -
अत इति ।
ननु तेषां क्लेशाद्यदर्शनेऽपि स्वात्मनि कर्माणि पश्यतां तत्त्यागः युक्तः, तेषां कायक्लेशादिकरत्वात् । न इत्याह-
नापीति ।
अज्ञानां मोहमाहात्म्यात् नियतमपि कर्म त्यक्तुं शक्यं, न तत्त्वविदां, स्वात्मनि कर्मादर्शनेन तत्त्यागे हेत्वभावात् , इति मत्वा आह -
मोहादिति ।
कथं तर्हि तेषाम् आत्मनि कर्माणि अपश्यतां प्राप्त्यभावे तत्त्यागः संन्यासः ? तत्र आह -
गुणानामिति ।
अविवेकप्राप्तानां कर्मणां, त्यागः तत्त्वविदाम् इत्युक्तं स्मारयन् , अप्राप्तप्रतिषेधं प्रत्यादिशति -
सर्वेति ।
तत्त्वविदाम् अत्र अविचार्यत्वे फलितम् आह -
तस्मादिति ।
ये अनात्मविदः, ते एव इति उत्तरत्र सम्बन्धः ।
कर्मणि अधिकृतानाम् अनात्मविदां कर्मत्यागसम्भावनां दर्शयति -
येषां चेति ।
तन्निन्दा कुत्र उपयुक्ता ? इति आशङ्क्य आह -
कर्मिणामिति ।
किञ्च परमार्थसंन्यासिनां प्रशस्यत्वोपलम्भात् न निन्दाविषयत्वम् इत्याह -
सर्वेति ।
किञ्च अत्रापि ‘सिद्धिं प्राप्तो यथा’ (भ. गी. १८-५०) इत्यादिना ज्ञाननिष्ठायाः वक्ष्यमाणत्वात् तद्वतां न इह विचार्यत इत्याह -
वक्ष्यतीति ।
कर्माधिकृतानामेव अत्र विवक्षितत्वं, न ज्ञाननिष्ठानाम् , इति उपसंहरति -
तस्मादिति ।
ननु संन्यासशब्देन सर्वकर्मसंन्यासस्य ग्राह्यत्वात् तथाविधसंन्यासिनाम् इह विवक्षितत्वं प्रतिभाति ? तत्र आह -
कर्मेति ।
संन्यासशब्देन मुख्यस्यैव संन्यासस्य ग्रहणम् , गौणमुख्ययोः मुख्ये कार्यसंप्रत्ययात् , अन्यथा तदसम्भवे हेतूक्तिवैयर्थ्येति, अप्राप्ततिषेधात् , इति शङ्कते -
सर्वेति ।