नेदं हेतुवचनं सर्वकर्मसन्यांससम्भवसाधकं, कर्मफलत्यागस्तुतिपरत्वात् इति परिहरति -
नेत्यादिना ।
एतदेव दृष्टान्तेन स्पष्टयति -
यथेति ।
दृष्टान्तेऽपि यथाश्रुतार्थत्वं किं न स्यात् ? इति आशङ्क्य आह -
यथोक्तेति ।
न हि फलत्यागादेव ज्ञानं विना मुक्तिः युक्ता, मुक्तेः ज्ञानैकाधीनत्वासाधकश्रुतिस्मृतिविरोधात् , ‘अद्वेष्टा’ (भ. गी. १२-१३) इत्यादिना च अनन्तरमेव ज्ञानसाधनविधानानर्थक्यात् । अतः त्यागस्तुतिरेव अत्र ग्राह्या इत्यर्थः । दृष्टान्तगतम् अर्थं दार्ष्टान्तिके योजयति -
तथेति ।
प्रागुक्तपक्षापवादविवक्षया हेतूक्तेः मुख्यार्थत्वमेव किं न स्यात् ? इति आशङ्क्य तदपवादे हेत्वभावात् मैवम् इत्याह -
न सर्वेति ।
न च इयमेव हेतूक्तिः तदपवादिका, अन्यथासिद्धेः उक्तत्वात् इति भावः ।
मुख्यसंन्यासापवादासम्भवे संन्यासत्यागविकल्पस्य कथं सावकाशता ? इति आशङ्क्य आह -
तस्मादिति ।
ज्ञाननिष्ठान् प्रति उक्तविकल्पानुपपत्तौ, कुत्र तेषाम् अधिकारः ? तत्र आह -
ये त्विति ।
संन्यासिनां विकल्पानर्हत्वेन ज्ञाननिष्ठयाम् एव अधिकारस्य भूयस्सु प्रदेशेषु साधितत्वात् न साधतीयत्वापेक्षा इत्याह -
तथेति
॥ ३ ॥