श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यज्ञदानतपःकर्म त्याज्यं कार्यमेव तत्
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५ ॥
यज्ञः दानं तपः इत्येतत् त्रिविधं कर्म त्याज्यं त्यक्तव्यम् , कार्यं करणीयम् एव तत्कस्मात् ? यज्ञः दानं तपश्चैव पावनानि विशुद्धिकराणि मनीषिणां फलानभिसन्धीनाम् इत्येतत् ॥ ५ ॥

यज्ञादीनां कर्तव्यत्वे हेतुम् आह -

यज्ञ इति ।

न केवलम् अत्याज्यं, किन्तु कर्तव्यमेव इत्याह -

कार्यमिति ।

प्रतिज्ञातम् एवं विभज्य हेतुं विभजते -

कस्मादिति ।

॥ ५ ॥