श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एतान्यपि तु कर्माणि
सङ्गं त्यक्त्वा फलानि
कर्तव्यानीति मे पार्थ
निश्चितं मतमुत्तमम् ॥ ६ ॥
निश्चयं शृणु मे तत्र’ (भ. गी. १८ । ४) इति प्रतिज्ञाय, पावनत्वं हेतुम् उक्त्वा, ‘एतान्यपि कर्माणि कर्तव्यानिइत्येतत्निश्चितं मतमुत्तमम्इति प्रतिज्ञातार्थोपसंहार एव, अपूर्वार्थं वचनम् , ‘एतान्यपिइति प्रकृतसंनिकृष्टार्थत्वोपपत्तेःसासङ्गस्य फलार्थिनः बन्धहेतवः एतान्यपि कर्माणि मुमुक्षोः कर्तव्यानि इति अपिशब्दस्य अर्थः तु अन्यानि कर्माणि अपेक्ष्यएतान्यपिइति उच्यते

उपसंहारश्लोकाक्षराणि व्याकरोति - एतानीत्यादिना । अक्षरार्थम् उक्त्वा तात्पर्यार्थमाह -

निश्चयमिति ।

प्रकृतार्थोपसंहारे गमकमाह -

एतान्यपीति ।

अपिशब्दस्य विवक्षितम् अर्थं दर्शयति -

सासङ्गस्येति ।

व्यावर्त्यं कीर्तयति -

न त्विति ।