श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एतान्यपि तु कर्माणि
सङ्गं त्यक्त्वा फलानि
कर्तव्यानीति मे पार्थ
निश्चितं मतमुत्तमम् ॥ ६ ॥
अन्ये तु वर्णयन्तिनित्यानां कर्मणां फलाभावात्सङ्गं त्यक्त्वा फलानि इति उपपद्यतेअतःएतान्यपिइति यानि काम्यानि कर्मणि नित्येभ्यः अन्यानि, एतानि अपि कर्तव्यानि, किमुत यज्ञदानतपांसि नित्यानि इतितत् असत् , नित्यानामपि कर्मणाम् इह फलवत्त्वस्य उपपादितत्वात् यज्ञो दानं तपश्चैव पावनानि’ (भ. गी. १८ । ५) इत्यादिना वचनेननित्यान्यपि कर्माणि बन्धहेतुत्वाशङ्कया जिहासोः मुमुक्षोः कुतः काम्येषु प्रसङ्गः ? दूरेण ह्यवरं कर्म’ (भ. गी. २ । ४९) इति निन्दितत्वात् , यज्ञार्थात् कर्मणोऽन्यत्र’ (भ. गी. ३ । ९) इति काम्यकर्मणां बन्धहेतुत्वस्य निश्चितत्वात् , त्रैगुण्यविषया वेदाः’ (भ. गी. २ । ४५) त्रैविद्या मां सोमपाः’ (भ. गी. ९ । २०) क्षीणे पुण्ये मर्त्यलोकं विशन्ति’ (भ. गी. ९ । २१) इति , दूरव्यवहितत्वाच्च, काम्येषुएतान्यपिइति व्यपदेशः ॥ ६ ॥

एतान्यपि इत्यादिवाक्यं न नित्यकर्मविषयम् इति मतम् उपन्यस्यति -

अन्य इति ।

न चेत् इदं नित्यकर्मविषयं, किंविषयं तर्हि ? इत्याशङ्क्य, वाक्यमवतार्य व्याकरोति-

एतानीत्यादिना ।

नित्यानाम् अफलत्वम् उपेत्य यत् चोद्यं तत् अयुक्तम् इति दूषयति-

तदसदिति ।

यत्तु काम्यान्यपि कर्तव्यानि इति तत् निरस्यति-

नित्यान्यपीति ।

किञ्च काम्यानां भगवता निन्दितत्वात् न तेषु मुमुक्षोः अनुष्ठानम् इति आह -

दूरेणेति ।

किञ्च मुमुक्षोः अपेक्षितमोक्षापेक्षया विरुद्धफलत्वात् काम्यकर्मणां न तेषु तस्य अनुष्ठानम् इत्याह -

यज्ञार्थादिति ।

काम्यानां बधहेतुत्वं निश्चितम् इति अत्रैव पूर्वोत्तरवाक्यानुकूल्यं दर्शयति -

त्रैगुण्येति ।

किञ्च पूर्वश्लोके यज्ञादिनित्य कर्मणां प्रकृतत्वात् एतच्छब्देन सन्निहितवाचिना परामर्शात् काम्यकर्मणां च ‘काम्यानां कर्मणां’ इति व्यवहितानां सन्निहितपरामर्शकैतच्छब्दाविषयत्वात् न काम्यक्रर्माणि ‘एतान्यपि’ इति व्यपदेशम् अर्हन्ति इत्याह-

दूरेति

॥ ६ ॥