कर्तव्यम् इत्येव इति एवकारेण नित्यस्य भाव्यान्तरं निषिध्यते । नित्यानां विध्युद्देशे फलाश्रवणात् , तेषां फलं त्यक्त्वा इति अयुक्तम् , इति आशङ्क्य आह-
नित्यानामिति ।
फलं त्यकत्वा इत्यस्य विधान्तरेण तात्पर्यम् आह -
अथवेति ।
न हि विधिना कृतं कर्म अनर्थकं, विध्यानर्थक्यात् । तेन श्रौतफलाभावेऽपि नित्यं कर्म विधितः अनुतिष्ठन् , आत्मानम् अजानन् अनुपहतमनस्त्वोक्त्या तस्मिन् कर्मणि आत्मसंस्कारं फलं कल्पयति, तदकरणे प्रत्यवायस्मृत्या तत्करणं, कर्तुः आत्मनः तन्निवृत्तिं करोति इति वा नित्ये कर्मणि उक्तां कल्पनाम् अनु निष्पादितफलकल्पनां च ‘फलं त्यक्त्वा’ इति अस्य भगवान् निवारयति इत्यर्थः ।
नित्यकर्मसु फलत्यागोक्तेः सम्भवे फलितमाह -
अत इति ।