कर्मतत्फलत्यागस्य त्यागसंन्यासशब्दाभ्यां प्रकृतस्य, ‘त्यागो हि’ (भ. गी. १८-४) इति त्रैविध्यं प्रतिज्ञाय, प्रतिज्ञानुरोधे द्वे विधे व्युत्पाद्य, तृतीयां विधां तद्विरोधेन त्र्युत्पादयतः भगवतः अकौशलम् आपतितम् इति शङ्कते -
नन्विति ।
प्रक्रमप्रतिकूलम् उपसंहारवचनम् अनुचितम् इति अत्र दृष्टान्तम् आह-
यथेति ।
पूर्वोत्तरविरोधेन प्रप्तम् अकौशलं प्रत्यादिशति -
नैष दोष इति ।
कर्मत्यगफलत्यागयोः त्यागत्वेन सादृश्यात् , कर्मत्यागनिन्दया तत्फलत्यागस्तुत्यर्थम् इदं वचनम् इति उपगमात् न विरोधः अस्ति इति उक्तमेव व्यक्तीकुर्वन् आदौ त्यगसामान्यं विशदयति -
अस्तीति ।
सति सामान्ये निर्देशस्य स्तुत्यर्थत्वं समर्थयते -
तत्रेति
॥ ९ ॥