श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यस्तु अधिकृतः सङ्गं त्यक्त्वा फलाभिसन्धिं नित्यं कर्म करोति, तस्य फलरागादिना अकलुषीक्रियमाणम् अन्तःकरणं नित्यैश्च कर्मभिः संस्क्रियमाणं विशुध्यतितत् विशुद्धं प्रसन्नम् आत्मालोचनक्षमं भवतितस्यैव नित्यकर्मानुष्ठानेन विशुद्धान्तःकरणस्य आत्मज्ञानाभिमुखस्य क्रमेण यथा तन्निष्ठा स्यात् , तत् वक्तव्यमिति आह

एवं पूर्वापरविरोधं पराकृत्य अनन्तरश्लोकतात्पर्यम् आह -

यस्त्विति ।

फलरागादिना इति आदिशब्देन कर्मस्वरूपासङ्गः गृह्यते ।

अन्तःकरणं अकलुषीक्रियमाणम् इति छेदः । विशुद्धे अन्तःकरणे किं स्यात् इति आशङ्क्य आह-

विशुद्धमिति ।

मलविकलत्वं विशुद्धत्वं, संस्क्रियमाणत्वं - प्रसन्नत्वम् इति भेदः । क्रमेण - श्रवणाद्यावृत्तिद्वारेण इत्यर्थः । तन्निष्ठा इति आत्मज्ञाननिष्ठा उक्ता ।