उक्ताधिकारिणः सर्वकर्मसंन्यासासम्भवेऽपि फलाभावे कुतः तस्य कर्तव्यता इति शङ्कते -
किं पुनरिति ।
गौणस्य मुख्यस्य वा संन्यासस्य फलं पिपृच्छिषितम् ? इति विकल्पयति -
उच्यत इति ।