सर्वकर्मत्यागो नाम तदनुष्ठानेऽपि तत्फलाभिसन्धित्यागः स च अमुख्यसंन्यासः । तस्य फलम् आह -
अनिष्टमिति ।
मुख्ये तु संन्यासे सर्वकर्मत्यागे सम्यग्धीद्वारा सर्वसंसारोच्छित्तिरेव फलम् इत्याह -
न त्विति ।
पादत्रयं व्याकरोति -
अनिष्टमित्यादिना ।
तिर्यगादीत्यादिपदम् अवशिष्टनिकृष्टयोनिसङ्ग्रहार्थं, देवादीत्यादिपदम् अवशिष्टोत्कृष्टयोनिग्रहणाय इति विभागः ।
फलशब्दं व्युत्पादयति-
बाह्येति ।
करणद्वारकम् अनेकविधत्वम् उकत्वा मिथ्यात्वम् आह -
अविद्येति ।
तत्कृतत्वेन दृष्टिमात्रदेहत्वे दृष्टान्तमाह -
इन्द्रेति ।
प्रतीतितः रमणीयत्वं सूचयति -
महामोहेति ।
अविद्योत्थस्य अविद्याश्रितत्वात् आत्माश्रितत्वं वस्तुतः नास्ति इति आह -
प्रत्यगिति ।
उक्तं फलं कर्मिणाम् इष्यते चेत् अमुख्यसंन्यासफलोक्तिपरत्वं पादत्रयस्य कथम् इष्टम् ? इति आशङ्क्य आह -
अपरमार्थेति ।
फलाभिसन्धिविकलानां कर्मिणां देहपातात् ऊर्ध्वं कर्मानुरोधिफलम् आवश्यकम् इत्यर्थः ।
कर्मिणामेव सताम् अफलाभिसन्धीनाम् अमुख्यसंन्यासित्वात् तदीयामुख्यसंन्यासस्य फलम् उक्त्वा चतुर्थपादं व्याचष्टे-
न त्विति ।
अमुख्यसंन्यासम् अनन्तरप्रकृतं व्यवच्छिनत्ति -
परमार्थेति ।
तेषां प्रधानं धर्मम् उपदिशति -
केवलेति ।
क्वचित् देशे काले वा नास्ति यथोक्तं फलं तेषामिति सम्बन्धः ।
तर्हि परमार्थसंन्यासः अफलत्वात् न अनुष्ठीयेत इति आशङ्क्य तस्य मोक्षावसायित्वात् मैवम् इत्याह -
न हीति
॥ १२ ॥