ननु अपरमार्थसंन्यासवत् अविशेषात् अज्ञानां परमार्थसंन्यासोऽपि किं न स्यात् ? त्यागस्य सुकरत्वात् । तत्र आह -
अतः परमार्थेति ।
तस्य सम्यग्दर्शनात् अविद्यानिवृत्तौ तदारोपितक्रियाकारकादिनिवृत्तेः इति हेत्वर्थः ।
विद्यावतः सर्वकर्मसंन्यासित्वसम्भावनाम् उक्त्वा एवकारव्यावर्त्यं दर्शयति -
न त्विति ।
अविदुषः अशेषकर्मणां तद्धेतूनां च रागादीनां त्यागायोगे कारकेषु अधिष्ठानादिषु आत्मत्वदर्शनं हेतुम् आह -
क्रियेति ।
कथम् अधिष्ठानादीनां क्रियाकर्तृतत्वम् ? कथं वा अविदुषः तेषु आत्मत्वधीः ? इति आशङ्क्य अनन्तरश्लोकचतुष्टयस्य तात्पर्यम् आह -
तदेतदिति ।