कर्मार्थानाम् अधिष्ठानादीनाम् अप्रामाणिकत्वाशङ्काम् आदौ उद्धरति-
पञ्चेति ।
उत्तरत्र इति अधिष्ठानादिषु वक्ष्यमाणेषु इत्यर्थः ।
वस्तूनां तेषामेव वैषम्यं दिदर्शयिषितं न हि चेतस्समाधानात् ऋते ज्ञातुं शक्यते । साङ्ख्यशब्दं व्युत्पादयति -
ज्ञातव्या इति ।
आत्मा त्वम्पदार्थः, तत्पदार्थः ब्रह्म, तयोः ऐक्यधीः तदुपयोगिनश्च श्रवणादयः पदार्थाः, ते सङ्ख्यायन्ते - व्युत्पाद्यन्ते ।
कृतान्तशब्दस्य वेदान्तविषयत्वं विभजते -
कृतमित्यादिना ।
वेदान्तस्य तत्त्वधीद्वारा कर्मावसानभूमित्वे वाक्योपक्रमानुकूल्यं दर्शयति -
यावानिति ।
उदपाने - कूपादौ यावान् अर्थः - स्नानादिः, तावान् अर्थः समुद्रे सम्पद्यते । अतः यथा कुपादिकृतं कार्य सर्वं समुद्रे अन्तर्भवति तथा सर्वेषु वेदेषु कर्मार्थेषु यावत् फलं तावत् ज्ञातवतः ब्राह्मणस्य ज्ञाने अन्तर्भवति । ज्ञानं प्राप्तस्य कर्तव्यानवशेषात् इत्यर्थः ।
तत्रैव वाक्यान्तरम् अनुक्रामति -
सर्वमिति ।
उदाहृतवाक्ययोः तात्पर्यम् आह-
आत्मेति ।
आत्मज्ञाने सति सर्वकर्मनिवृत्तावपि कथं वेदान्तस्य कृतान्तत्वम् इति आशङ्क्य आह -
अत इति ।
तानि मद्वचनतः निबोध इति पूर्वेण सम्बन्धः
॥ १३ ॥