श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अतः परमार्थदर्शिनः एव अशेषकर्मसंन्यासित्वं सम्भवति, अविद्याध्यारोपितत्वात् आत्मनि क्रियाकारकफलानाम् ; तु अज्ञस्य अधिष्ठानादीनि क्रियाकर्तृकारकाणि आत्मत्वेनैव पश्यतः अशेषकर्मसंन्यासः सम्भवति तदेतत् उत्तरैः श्लोकैः दर्शयति

ननु अपरमार्थसंन्यासवत् अविशेषात् अज्ञानां परमार्थसंन्यासोऽपि किं न स्यात् ? त्यागस्य सुकरत्वात् । तत्र आह -

अतः परमार्थेति ।

तस्य सम्यग्दर्शनात् अविद्यानिवृत्तौ तदारोपितक्रियाकारकादिनिवृत्तेः इति हेत्वर्थः ।

विद्यावतः सर्वकर्मसंन्यासित्वसम्भावनाम् उक्त्वा एवकारव्यावर्त्यं दर्शयति -

न त्विति ।

अविदुषः अशेषकर्मणां तद्धेतूनां च रागादीनां त्यागायोगे कारकेषु अधिष्ठानादिषु आत्मत्वदर्शनं हेतुम् आह -

क्रियेति ।

कथम् अधिष्ठानादीनां क्रियाकर्तृतत्वम् ? कथं वा अविदुषः  तेषु आत्मत्वधीः ? इति आशङ्क्य अनन्तरश्लोकचतुष्टयस्य तात्पर्यम् आह -

तदेतदिति ।