श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य लिप्यते
हत्वापि इमांल्लोकान्न हन्ति निबध्यते ॥ १७ ॥
ननु अधिष्ठानादिभिः सम्भूय करोत्येव आत्मा, कर्तारमात्मानं केवलं तु’ (भ. गी. १८ । १६) इति केवलशब्दप्रयोगात्नैष दोषः, आत्मनः अविक्रियस्वभावत्वे अधिष्ठानादिभिः, संहतत्वानुपपत्तेःविक्रियावतो हि अन्यैः संहननं सम्भवति, संहत्य वा कर्तृत्वं स्यात् तु अविक्रियस्य आत्मनः केनचित् संहननम् अस्ति इति सम्भूय कर्तृत्वम् उपपद्यतेअतः केवलत्वम् आत्मनः स्वाभाविकमिति केवलशब्दः अनुवादमात्रम्अविक्रियत्वं आत्मनः श्रुतिस्मृतिन्यायप्रसिद्धम्अविकार्योऽयमुच्यते’ (भ. गी. २ । २५) गुणैरेव कर्माणि क्रियन्ते’ (भ. गी. ३ । २७) शरीरस्थोऽपि करोति’ (भ. गी. १३ । ३१) इत्यादि असकृत् उपपादितं गीतास्वेव तावत्श्रुतिषु ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इत्येवमाद्यासुन्यायतश्चनिरवयवम् अपरतन्त्रम् अविक्रियम् आत्मतत्त्वम् इति राजमार्गःविक्रियावत्त्वाभ्युपगमेऽपि आत्मनः स्वकीयैव विक्रिया स्वस्य भवितुम् अर्हति, अधिष्ठानादीनां कर्माणि आत्मकर्तृकाणि स्युः हि परस्य कर्म परेण अकृतम् आगन्तुम् अर्हतियत्तु अविद्यया गमितम् , तत् तस्ययथा रजतत्वं शुक्तिकायाः ; यथा वा तलमलिनत्वं बालैः गमितम् अविद्यया, आकाशस्य, तथा अधिष्ठानादिविक्रियापि तेषामेव, आत्मनःतस्मात् युक्तम् उक्तम्अहङ्कृतत्वबुद्धिलेपाभावात् विद्वान् हन्ति निबध्यतेइतिनायं हन्ति हन्यते’ (भ. गी. २ । १९) इति प्रतिज्ञाय जायते’ (भ. गी. २ । २०) इत्यादिहेतुवचनेन अविक्रियत्वम् आत्मनः उक्त्वा, वेदाविनाशिनम्’ (भ. गी. २ । २१) इति विदुषः कर्माधिकारनिवृत्तिं शास्त्रादौ सङ्क्षेपतः उक्त्वा, मध्ये प्रसारितां तत्र तत्र प्रसङ्गं कृत्वा इह उपसंहरति शास्त्रार्थपिण्डीकरणायविद्वान् हन्ति निबध्यतेइतिएवं सति देहभृत्त्वाभिमानानुपपत्तौ अविद्याकृताशेषकर्मसंन्यासोपपत्तेः संन्यासिनाम् अनिष्टादि त्रिविधं कर्मणः फलं भवति इति उपपन्नम् ; तद्विपर्ययाच्च इतरेषां भवति इत्येतच्च अपरिहार्यम् इति एषः गीताशास्त्रार्थः उपसंहृतः एषः सर्ववेदार्थसारः निपुणमतिभिः पण्डितैः विचार्य प्रतिपत्तव्यः इति तत्र तत्र प्रकरणविभागेन दर्शितः अस्माभिः शास्त्रन्यायानुसारेण ॥ १७ ॥

केवलमेव आत्मानं कर्तारं पश्यन् दुर्मतिः इत्यत्र आत्मविशेषणसमर्पककेवलशब्दसामर्थ्यात् आत्मनः विशिष्टस्य कर्तृत्वम् इति शङ्कते -

नन्विति ।

आत्मनः वैशिष्ट्यायोगात् न विशिष्टस्यापि कर्तृत्वम् इति दूषयति-

नैष दोष इति ।

अविक्रियस्वाभाव्येऽपि कथम् आत्मनः असंहतत्वम् इति आशङ्क्य आह -

विक्रियेति ।

अधिष्ठानादिभिः आत्मनः संहननेऽपि न कर्तृत्वम् अविक्रियस्य क्रियान्वयव्याघातात् इत्याह-

संहत्येति ।

संहतत्वानुपपत्तिं व्यक्तीकरोति -

न त्विति ।

असंहतत्वे फलितम् आह -

इति नेति ।

कथं तर्हि केवलत्वम् आत्मनि केवलशब्दात् उक्तम् ? तदाह -

अत इति ।

अकर्तृत्वम् आत्मनः अभ्युपपन्नं, न अस्य अविक्रियत्वम् उपैति इति आशङ्क्य आह -

अविक्रियत्वं चेति ।

तत्र स्मृतिवाक्यानि उदाहरति -

अविकार्योऽयमिति ।

‘नायं हन्ति न हन्यते’ (भ. गी. २-१९) इत्यादिवाक्यम् आदिशब्दार्थः ।

उक्तवाक्यानाम् आत्माविक्रियत्वे तात्पर्यं सूचयति -

असकृदिति ।

‘निष्कलं निष्क्रियं शान्तम् इत्यादिवाक्यं श्रुतौ आदिशब्दार्थः । यानि वाक्यानि तैः आत्मनः अविक्रियत्वं दर्शितम् इति योजना ।

न्यायतश्च तत् दर्शितम् इति पूर्वेण सम्बन्धः न्यायमेव दर्शयति -

निरवयवमिति ।

न तावत् आत्मा स्वतः विक्रियते निरवयवत्वात् आकाशवत् , नापि परतः असङ्गस्य अकार्यस्य पराधीनत्वायोगात् इत्यर्थः ।

किं च आत्मनः स्वनिष्ठा वा विक्रिया ? अधिष्ठानादिनिष्ठा वा ? न आद्यः । स्वनिष्ठविक्रियानुपपत्तेः आत्मनः दर्शितत्वात् इति आशयेन आह -

विक्रियावत्त्वेति ।

सा च अयुक्ता इति उक्तम् इति शेषः ।

द्वितीयं दूषयति -

नेत्यादिना ।

अधिष्ठानादिकृतमपि कर्म तद्योगात् आत्मनि आगच्छति इति आशङ्क्य, तदागमनं वास्तवम् आविद्यं वा इति विकल्प्य आद्यं दूषयति -

नहीति ।

द्वितीयं निरस्यति -

यत्त्विति ।

आत्मनि अविद्याप्रापितं कर्म न आत्मीयम् इति एतत् दृष्टान्ताभ्याम् उपपादयति -

यथेत्यादिना ।

आत्मनः अविक्रियत्वेन कर्तृत्वाभावे फलितम् आह -

तस्मादिति ।

ननु प्रागेव आत्मनः अविक्रियत्वं प्रतिपादितम् । तत् इह कस्मात् उच्यते ? तत्र आह -

नायमिति ।

शास्त्रादौ प्रतिज्ञातं हेतुपूर्वकं सङ्क्षिप्य उक्त्वा मध्ये तत्र तत्र प्रसङ्गं कृत्वा प्रसारितां कर्माधिकारनिवृत्तिम् इह उपसंहरति इति सम्बन्धः ।

प्रतिज्ञातस्य हेतुना उपपादितस्य अन्ते निगमनं किमर्थम् इति आशङ्क्य आह-

शास्त्रार्थेति ।

कर्माधिकारो विदुषः न, इति स्थिते, तस्य देहाभिमानाभावे सति, अविद्योत्थसर्वकर्मत्यागसिद्धेः अनिष्टम् इष्टं मिश्रं चेति त्रिविधं कर्मफलं संन्यासिनां न, इति प्रागुक्तं युक्तमेव, इति परमप्रकृतम् उपसंहरति -

एवं चेति ।

ये पुनः अविद्वासंः देहाभिमानिनः, तेषां त्रिविधं कर्मफलं सम्भवत्येव, इति हेतुवचनसिद्धम् अर्थं निगमयति -

तद्विपर्ययाच्च इति ।

अधिष्ठानादिकृतं कर्म न आत्मकृतम् , अविदुषामेव कर्माधिकारः, देहाभिमानित्वेन तत्त्यागायोगात् , देहाभिमानाभावात्तु विदुषां कर्माधिकारनिवृत्तिः, इति उपसंहृतम् अर्थं सङ्क्षिप्य आह -

इत्येष इति ।

उक्तश्च गीतार्थः वेदार्थत्वात् उपादेयः इत्याह -

स एष इति ।

कथम् अयम् अर्थः वेदार्थोऽपि प्रतिपत्तुं शक्यते ? तत्र आह -

निपुणेति ।

भाष्यकृता मानयुक्तिभ्यां विभज्य अनुक्तत्वात् न अस्य अर्थस्य उपादेयत्वम् इति आशङ्क्य आह -

तत्रेति

॥ १७ ॥