श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥ १८ ॥
ज्ञानं ज्ञायते अनेन इति सर्वविषयम् अविशेषेण उच्यतेतथा ज्ञेयं ज्ञातव्यम् , तदपि सामान्येनैव सर्वम् उच्यतेतथा परिज्ञाता उपाधिलक्षणः अविद्याकल्पितः भोक्ताइति एतत् त्रयम् अविशेषेण सर्वकर्मणां प्रवर्तिका त्रिविधा त्रिप्रकारा कर्मचोदनाज्ञानादीनां हि त्रयाणां संनिपाते हानोपादानादिप्रयोजनः सर्वकर्मारम्भः स्यात्ततः पञ्चभिः अधिष्ठानादिभिः आरब्धं वाङ्मनःकायाश्रयभेदेन त्रिधा राशीभूतं त्रिषु करणादिषु सङ्गृह्यते इत्येतत् उच्यतेकरणं क्रियते अनेन इति बाह्यं श्रोत्रादि, अन्तःस्थं बुद्ध्यादि, कर्म ईप्सिततमं कर्तुः क्रियया व्याप्यमानम् , कर्ता करणानां व्यापारयिता उपाधिलक्षणः, इति त्रिविधः त्रिप्रकारः कर्मसङ्ग्रहः, सङ्गृह्यते अस्मिन्निति सङ्ग्रहः, कर्मणः सङ्ग्रहः कर्मसङ्ग्रहः, कर्म एषु हि त्रिषु समवैति, तेन अयं त्रिविधः कर्मसङ्ग्रहः ॥ १८ ॥

शास्त्रार्थोपसंहारानन्तर्यम् अथ इत्युक्तम् । इदानीमिति प्रवर्तकोपदेशापेक्षावस्था उक्ता । कर्मणां येषु विदुषां न अधिकारः, अविदुषां च अधिकारः, तेषाम् इत्यर्थः । ज्ञानशब्दस्य करणव्युत्पत्त्या ज्ञानमात्रार्थत्वम् आह -

ज्ञानमिति ।

ज्ञेयशब्दस्यापि तद्वदेव ज्ञातव्यमात्रार्थत्वम् आह-

तथेति ।

उपाधिलक्षणत्वं - तत्प्रधानत्वम् उपहितत्वम् । तस्य अवस्तुत्वार्थं अविद्याकल्पितविशेपणम् । एतदेव त्रयं सर्वकर्मप्रवर्तकम् इत्याह -

इत्येतदिति ।

सर्वकर्मणां प्रवर्तकम् इति अध्याहर्तव्यम् ।

चोदनेति क्रियायाः प्रवर्तकं वचनम् इति भाष्यानुसारेण चोदनाशब्दार्थम् आह -

प्रवर्तिकेति ।

सर्वकर्मणाम् इति पूर्वेणसम्बन्धः । त्रैविध्यं ज्ञानादिना प्राक् उक्तम् । कर्मणां चोदना इति विग्रहः ।

तेषां सर्वकर्मप्रवर्तकत्वम् अनुभवेन साधयति -

ज्ञानादीनामिति ।

हानोपादानादि इति आदिपदेन उपेक्षा विवक्षिता ।

करणम् इत्यादेः तात्पर्यम् आह -

तत इति ।

ज्ञानादीनां प्रवर्तकत्वात् इत्यर्थः ।

उक्तेऽर्थे श्लोकभागम् अवतारयति -

इत्येतदिति ।

बाह्यम् अन्तस्थं च द्विविधं करणं करणव्युत्पत्त्या कथयति -

करणमिति ।

उक्तलक्षणं कर्मैव स्फुटयति -

कर्तुरिति ।

स्वतन्त्रो हि कर्ता ।

स्वातन्त्र्यं च कारकाप्रयोज्यस्य तत्प्रयोक्तृत्वम् इत्याह -

कर्तेति ।

कथम् उक्ते त्रिविधे कर्म सङ्गृह्यते ? तत्राह -

कर्मेति ।

कर्मणो हि प्रसिद्धं कारकाश्रयत्वम् इति भावः

॥ १८ ॥