श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अथ इदानीं क्रियाकारकफलानां सर्वेषां गुणात्मकत्वात् सत्त्वरजस्तमोगुणभेदतः त्रिविधः भेदः वक्तव्य इति आरभ्यते
अथ इदानीं क्रियाकारकफलानां सर्वेषां गुणात्मकत्वात् सत्त्वरजस्तमोगुणभेदतः त्रिविधः भेदः वक्तव्य इति आरभ्यते

अनन्तरश्लोकदशकतात्पर्यमाह -

अथेति ।

ज्ञानादिप्रस्तावानन्तर्यम् अथशब्दार्थः । इदानीं - प्रस्तुतज्ञानाद्यवान्तरभेदापेक्षायाम् इत्यर्थः ।

तेषां गुणभेदात् त्रैविध्ये हेतुम् आह -

गुणात्मकत्वात् इति ।

वक्तव्यः - वक्ष्यमाणश्लोकनवकेन इति शेषः ।

एवं स्थिते प्रथमम् अवान्तरभेदप्रतिज्ञा क्रियते इत्याह -

इत्यारभ्यत इति ।