कर्तुः ईप्सिततमं कर्म इति यत् तत् परिभाष्यते, तत् न अत्र कर्मशब्दवाच्यम् इति आह -
नेति ।
गुणातिरेकेण विधान्तरं ज्ञानादिषु न इति निर्धारयितुम् अवधारणम् इति आह -
गुणेति ।
ज्ञानादीनां प्रत्येकं गुणभेदप्रयुक्ते त्रैविध्ये प्रमाणम् आह -
प्रोच्यत इति ।
न तु कापिलं पातञ्जलम् इत्यादि शास्त्रीं विरुद्धार्थत्वात् अप्रमाणं, कथम् इह प्रमणीक्रियते ? तत्र आह -
तदपीति ।
विषयविशेषे विरोधेऽपि प्रकृते अर्थे प्रामाण्यम् अविरुद्धम् इत्यर्थः ।
यद्यपि कापिलादयः गुणवृत्तिविचारे गौणव्यापारस्य भोगादेः निरूपणे च निपुणाः, तथापि कथं तदीयं शास्त्रम् अत्र प्रमाणीकृतं इति आशङ्क्य आह -
ते हीति ।
ज्ञानादिषु प्रत्येकम् अवान्तरभेदः वक्ष्यमाणः अर्थः तस्य तन्त्रान्तरेऽपि प्रसिद्धिकथनं स्तुतिः, तादर्थ्येन कापिलादिमतोपादानम् इह उपयोगि इत्यर्थः ।
तृतीयपादस्य अविरुद्धार्थत्वं निगमयति-
नेति ।
यथावत् इत्यादि व्याचष्टे -
यथान्यायमिति
॥ १९ ॥