श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वभूतेषु येनैकं
भावमव्ययमीक्षते
अविभक्तं विभक्तेषु
तज्ज्ञानं विद्धि सात्त्विकम् ॥ २० ॥
सर्वभूतेषु अव्यक्तादिस्थावरान्तेषु भूतेषु येन ज्ञानेन एकं भावं वस्तुभावशब्दः वस्तुवाची, एकम् आत्मवस्तु इत्यर्थः ; अव्ययं व्येति स्वात्मना स्वधर्मेण वा, कूटस्थम् इत्यर्थः ; ईक्षते पश्यति येन ज्ञानेन, तं भावम् अविभक्तं प्रतिदेहं विभक्तेषु देहभेदेषु विभक्तं तत् आत्मवस्तु, व्योमवत् निरन्तरमित्यर्थः ; तत् ज्ञानं साक्षात् सम्यग्दर्शनम् अद्वैतात्मविषयं सात्त्विकं विद्धि इति ॥ २० ॥

तत्र सात्त्विकं ज्ञानम् उपन्यस्यति -

सर्वेति ।

भूतानि - कार्यकारणात्मकानि उपाधिजातानि ।

अद्वितीयम् अखण्डैकरसं प्रत्यगात्मभूतम् अबाधितं तत्त्वं ज्ञेयत्वेन विवक्षितम् इत्याह -

एकमिति ।

विवक्षितम् अव्ययत्वं सङ्क्षिपति -

कूटस्थेति ।

प्रतिदेहम् अविभक्तम् इति उक्तं व्यनक्ति -

विभक्तेष्विति ।

तत् ज्ञानम् इत्यादि व्याकरोति -

अद्वैतेति

॥ २० ॥