श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नियतं सङ्गरहितमरागद्वेषतःकृतम्
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ २३ ॥
नियतं नित्यं सङ्गरहितम् आसक्तिवर्जितम् अरागद्वेषतःकृतं रागप्रयुक्तेन द्वेषप्रयुक्तेन कृतं रागद्वेषतःकृतम् , तद्विपरीतम् अरागद्वेषतःकृतम् , अफलप्रेप्सुना फलं प्रेप्सतीति फलप्रेप्सुः फलतृष्णः तद्विपरीतेन अफलप्रेप्सुना कर्त्रा कृतं कर्म यत् , तत् सात्त्विकम् उच्यते ॥ २३ ॥

तत्र सात्त्विकं कर्म निरूपयति -

नियतमिति

॥ २३ ॥