राजसं कर्म निर्दिशति -
यत्त्विति ।
फलप्रेप्सुना कर्त्रा यत् कर्म क्रियते, तत् राजसम् इति उत्तरत्र सम्बन्धः ।
तत्त्वज्ञानवता निरंहङ्कारेण, साहङ्कारेण तु अज्ञेन क्रियते कर्म इति विवक्षां वारयति -
साहङ्कारेणेति ।
तत्त्वाज्ञानवता निरहङ्कारेण कृतं कर्म अपेक्ष्य, साहङ्कारेण अज्ञेन कृतम् एतत् कर्म इति न विवक्ष्यते चेत् तर्हि किम् अत्र विवक्षितम् ? इति पृच्छति -
किं तर्हि इति ।
यो हि दुरितरहितः श्रोत्रियः लोकात् अनपेतः तस्य यत् अहङ्कारवर्जितं कर्म, तदपेक्षया इदं साहङ्कारेण कृतं कर्म इति उक्तम् इत्याह -
लौकिकेति ।
ननु तत्त्वज्ञानवतः निरहङ्कारस्य कर्मकर्तृत्वम् अपेक्ष्य साहङ्कारेण इत्यादि किं न इष्यते ? तत्र आह -
यो हीति ।
विशेषणान्तरवशादेव तत्त्वविदः निवारितत्वात् न तदपेक्षं इदं विशेषणम् इत्यर्थः ।
साहङ्कारस्यैव राजसे कर्मणि कर्तृत्वम् इत्येतत् कैमुतिकन्यायेन साधयति -
सात्त्विकस्येति ।
ननु आत्मविदः अन्यस्य निरहङ्कारत्वायोगात् कथं तदपेक्षया साहङ्कारेण इति उक्तम् ? तत्र आह -
लोक इति
॥ २४ ॥