श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मुक्तसङ्गोऽनहंवादी
धृत्युत्साहसमन्वितः
सिद्ध्यसिद्ध्योर्निर्विकारः
कर्ता सात्त्विक उच्यते ॥ २६ ॥
मुक्तसङ्गः मुक्तः परित्यक्तः सङ्गः येन सः मुक्तसङ्गः, अनहंवादी अहंवदनशीलः, धृत्युत्साहसमन्वितः धृतिः धारणम् उत्साहः उद्यमः ताभ्यां समन्वितः संयुक्तः धृत्युत्साहसमन्वितः, सिद्ध्यसिद्ध्योः क्रियमाणस्य कर्मणः फलसिद्धौ असिद्धौ सिद्ध्यसिद्ध्योः निर्विकारः, केवलं शास्त्रप्रमाणेन प्रयुक्तः फलरागादिना यः सः निर्विकारः उच्यतेएवंभूतः कर्ता यः सः सात्त्विकः उच्यते ॥ २६ ॥

इदानीं कर्तृत्रैविध्यं ब्रुवन् आदौ सात्त्विकं कर्तारं दर्शयति -

मुक्तेति ।

साङ्गो नाम फलाभिसन्धिर्वा कर्तृत्वाभिमानो वा । नाहं वदनशीलः - कर्ता अहमिति वदनशीलः न भवति इत्यर्थः ।

धारणं - धैर्यम् । क्रियमाणस्य कर्मणः यदि फलानभिसन्धिः, तर्हि न अनुष्ठानविश्रम्भः सम्भवेत् , इति आशङ्क्य आह -

केवलमिति ।

फलरागादिना इति आदिशब्देन कर्मरागः गृह्यते । अयुक्तः इति छेदः

॥ २६ ॥