इदानीं कर्तृत्रैविध्यं ब्रुवन् आदौ सात्त्विकं कर्तारं दर्शयति -
मुक्तेति ।
साङ्गो नाम फलाभिसन्धिर्वा कर्तृत्वाभिमानो वा । नाहं वदनशीलः - कर्ता अहमिति वदनशीलः न भवति इत्यर्थः ।
धारणं - धैर्यम् । क्रियमाणस्य कर्मणः यदि फलानभिसन्धिः, तर्हि न अनुष्ठानविश्रम्भः सम्भवेत् , इति आशङ्क्य आह -
केवलमिति ।
फलरागादिना इति आदिशब्देन कर्मरागः गृह्यते । अयुक्तः इति छेदः
॥ २६ ॥