श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मुक्तसङ्गोऽनहंवादी
धृत्युत्साहसमन्वितः
सिद्ध्यसिद्ध्योर्निर्विकारः
कर्ता सात्त्विक उच्यते ॥ २६ ॥
मुक्तसङ्गः मुक्तः परित्यक्तः सङ्गः येन सः मुक्तसङ्गः, अनहंवादी न अहंवदनशीलः, धृत्युत्साहसमन्वितः धृतिः धारणम् उत्साहः उद्यमः ताभ्यां समन्वितः संयुक्तः धृत्युत्साहसमन्वितः, सिद्ध्यसिद्ध्योः क्रियमाणस्य कर्मणः फलसिद्धौ असिद्धौ च सिद्ध्यसिद्ध्योः निर्विकारः, केवलं शास्त्रप्रमाणेन प्रयुक्तः न फलरागादिना यः सः निर्विकारः उच्यते । एवंभूतः कर्ता यः सः सात्त्विकः उच्यते ॥ २६ ॥

इदानीं कर्तृत्रैविध्यं ब्रुवन् आदौ सात्त्विकं कर्तारं दर्शयति -

मुक्तेति ।

साङ्गो नाम फलाभिसन्धिर्वा कर्तृत्वाभिमानो वा । नाहं वदनशीलः - कर्ता अहमिति वदनशीलः न भवति इत्यर्थः ।

धारणं - धैर्यम् । क्रियमाणस्य कर्मणः यदि फलानभिसन्धिः, तर्हि न अनुष्ठानविश्रम्भः सम्भवेत् , इति आशङ्क्य आह -

केवलमिति ।

फलरागादिना इति आदिशब्देन कर्मरागः गृह्यते । अयुक्तः इति छेदः

॥ २६ ॥