अयुक्तः प्राकृतः स्तब्धः
शठो नैकृतिकोऽलसः ।
विषादी दीर्घसूत्री च
कर्ता तामस उच्यते ॥ २८ ॥
अयुक्तः न युक्तः असमाहितः, प्राकृतः अत्यन्तासंस्कृतबुद्धिः बालसमः, स्तब्धः दण्डवत् न नमति कस्मैचित् , शठः मायावी शक्तिगूहनकारी, नैकृतिकः परविभेदनपरः, अलसः अप्रवृत्तिशीलः कर्तव्येष्वपि, विषादी विषादवान् सर्वदा अवसन्नस्वभावः, दीर्घसूत्री च कर्तव्यानां दीर्घप्रसारणः, सर्वदा मन्दस्वभावः, यत् अद्य श्वो वा कर्तव्यं तत् मासेनापि न करोति, यश्च एवंभूतः, सः कर्ता तामसः उच्यते ॥ २८ ॥