श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्रवृत्तिं निवृत्तिं
कार्याकार्ये भयाभये
बन्धं मोक्षं या वेत्ति
बुद्धिः सा पार्थ सात्त्विकी ॥ ३० ॥
प्रवृत्तिं प्रवृत्तिः प्रवर्तनं बन्धहेतुः कर्ममार्गः शास्त्रविहितविषयः, निवृत्तिं निर्वृत्तिः मोक्षहेतुः संन्यासमार्गःबन्धमोक्षसमानवाक्यत्वात् प्रवृत्तिनिवृत्ती कर्मसंन्यासमार्गौ इति अवगम्यतेकार्याकार्ये विहितप्रतिषिद्धे लौकिके वैदिके वा शास्त्रबुद्धेः कर्तव्याकर्तव्ये करणाकरणे इत्येतत् ; कस्य ? देशकालाद्यपेक्षया दृष्टादृष्टार्थानां कर्मणाम्भयाभये बिभेति अस्मादिति भयं चोरव्याघ्रादि, भयं अभयम् , भयं अभयं भयाभये, दृष्टादृष्टविषययोः भयाभययोः कारणे इत्यर्थःबन्धं सहेतुकं मोक्षं सहेतुकं या वेत्ति विजानाति बुद्धिः, सा पार्थ सात्त्विकीतत्र ज्ञानं बुद्धेः वृत्तिः ; बुद्धिस्तु वृत्तिमतीधृतिरपि वृत्तिविशेषः एव बुद्धेः ॥ ३० ॥

तत्रादौ सात्त्विकीं बुद्धिं निर्दिशति -

प्रवृत्तिं चेति ।

प्रवृत्तिः आचरणमात्रम् अनाचरणमात्रं च निवृत्तिः इति किं न इष्यते ? तत्र आह -

बन्धेति ।

यस्मिन् वाक्ये बन्धमोक्षौ उच्यते, तस्मिन्नेव प्रवृत्तिनिवृत्त्याोः उक्तत्वात् , कर्ममार्गस्य बन्धहेतुत्वात् , मोक्षहेतुत्वाच्च संन्यासमार्गस्य, तावेव अत्र  ग्राह्यौ इत्यर्थः ।

करणाकरणयोः निर्विषयत्वायोगात् विषयापेक्षाम् अवतार्य योग्यं विषयं निर्दिशति-

कस्येति ।

अनिष्टसाधनं भयम् , इष्टसाधनम् अभयम् इति विभजते -

भयेति ।

बन्धादिमात्रज्ञानस्य बुद्ध्यन्तरेऽपि सम्भवात् विशेषणम् ।

ननु बुद्दिशब्दितस्य ज्ञानस्य प्रागेव त्रैविध्यप्रतिपादनात् किमिति बुद्धेः इदानीं त्रैविध्यं प्रतिज्ञाय व्युत्पाद्यते ? तत्र आह -

ज्ञानमिति ।

तर्हि ज्ञानेन गतत्वात् न पुनः धृतिः व्युत्पादनीया इति आशङ्क्य आह -

धृतिरपीति ।

विशेषशब्देन ज्ञानात् व्यावृत्तिः इष्टा

॥  ३० ॥