धर्मशब्दो नपुम्सकलिङ्गोऽपि इति अभिप्रेत्य धर्मम् इति उक्तम् । तमसावृता - अविवेकेन वेष्टिता इत्यर्थः । कार्याकार्यादीन् उक्तान् अनुक्तांश्च सङ्ग्रहीतुं सर्वार्थान् इत्युक्तम् । तत् व्याचष्टे -
सर्वानेवेति ।
विपरीतांश्चेति चकारम् अवधारणे गृहीत्वा विपरीतानेव इत्युक्तम्
॥ ३२ ॥