इदनीं धृतित्रैविध्यं व्युत्पिपादयिषुः आदौ सात्विकीं धृतिं व्युत्पादयति -
धृत्येति ।
निर्दिष्टानां चेष्टानां कथं धृत्या धारणम् ? तत्र आह-
ताः इति ।
तदेव अनुभवेन साधयति -
धृत्या हीति ।
ध्रियते अनया इति धृतिः - यत्नविशेषः तया धृत्या धार्यमाणाः मिथोपदिष्टाः चेष्टाः शास्त्रम् अतिक्रम्य न अर्थान्तरावगाहिन्यः भवन्ति इति अर्थः ।
धृतिमेव समाध्यविनाभूतत्वेन विशिनष्टि -
योगेनेति ।
ननु धृतेः नियमेन समाध्यनुगतत्वं कथम् उक्तक्रियाधारणोपयोगी ? इति आशङ्क्य आह -
एतदिति ।
उक्तक्रियाः धारयमाणो योगेन ब्रह्मणि समाधानेन ऐकाग्र्येण अव्यभिचारिण्या अविनाभूतया धृत्या धारयति । अन्यथा तदविनाभावाभावे नियमेन तद्धारणासिद्धेः इत्यर्थः
॥ ३३ ॥