श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ ३४ ॥
यया तु धर्मकामार्थान् धर्मश्च कामश्च अर्थश्च धर्मकामार्थाः तान् धर्मकामार्थान् धृत्या यया धारयते मनसि नित्यमेव कर्तव्यरूपान् अवधारयति हे अर्जुन, प्रसङ्गेन यस्य यस्य धर्मादेः धारणप्रसङ्गः तेन तेन प्रसङ्गेन फलाकाङ्क्षी भवति यः पुरुषः, तस्य धृतिः या, सा पार्थ, राजसी ॥ ३४ ॥

राजसीं धृतिं दर्शयति -

यया त्विति ।

तेषां धारणप्रकारम् अभिनयति -

मनसीति ।

फलाकाङ्क्षीति कस्य विशेषणम् ? तत्र आह -

यः पुरुष इति

॥ ३४ ॥