श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ ३४ ॥
यया तु धर्मकामार्थान् धर्मश्च कामश्च अर्थश्च धर्मकामार्थाः तान् धर्मकामार्थान् धृत्या यया धारयते मनसि नित्यमेव कर्तव्यरूपान् अवधारयति हे अर्जुन, प्रसङ्गेन यस्य यस्य धर्मादेः धारणप्रसङ्गः तेन तेन प्रसङ्गेन फलाकाङ्क्षी च भवति यः पुरुषः, तस्य धृतिः या, सा पार्थ, राजसी ॥ ३४ ॥

राजसीं धृतिं दर्शयति -

यया त्विति ।

तेषां धारणप्रकारम् अभिनयति -

मनसीति ।

फलाकाङ्क्षीति कस्य विशेषणम् ? तत्र आह -

यः पुरुष इति

॥ ३४ ॥