तमासीं धृतिं व्याचष्टे -
ययेति ।
शोकं - प्रियवियोगनिमित्तं सन्तापम् । विषण्णतां - इन्द्रियाणां ग्लानिम् । विषयसेवा कुमार्गप्रवृत्तेः उपलक्षणम् उक्तम् । स्वप्नादि मदान्तं सर्वमेव कर्तव्यतया आत्मनः बहु मन्यमानः - मनसि नित्यमेव कुर्वन् दुर्मेधाः न विमुञ्चति, किन्तु धारयत्येव इति योजना
॥ ३५ ॥