श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यया स्वप्नं भयं शोकं
विषादं मदमेव
विमुञ्चति दुर्मेधा
धृतिः सा तामसी मता ॥ ३५ ॥
यया स्वप्नं निद्रां भयं त्रासं शोकं विषादं विषण्णतां मदं विषयसेवाम् आत्मनः बहुमन्यमानः मत्त इव मदम् एव मनसि नित्यमेव कर्तव्यरूपतया कुर्वन् विमुञ्चति धारयत्येव दुर्मेधाः कुत्सितमेधाः पुरुषः यः, तस्य धृतिः या, सा तामसी मता ॥ ३५ ॥

तमासीं धृतिं व्याचष्टे -

ययेति ।

शोकं - प्रियवियोगनिमित्तं सन्तापम् । विषण्णतां - इन्द्रियाणां ग्लानिम् । विषयसेवा कुमार्गप्रवृत्तेः उपलक्षणम् उक्तम् । स्वप्नादि मदान्तं सर्वमेव कर्तव्यतया आत्मनः बहु मन्यमानः - मनसि नित्यमेव कुर्वन् दुर्मेधाः न विमुञ्चति, किन्तु धारयत्येव इति योजना

॥ ३५ ॥