तामसं सुखं त्यागार्थमेव उदाहरति -
यदग्रे चेति ।
अनुबन्धशब्दार्थम् आह -
अवसानेति ।
मोहनं - मोहकरम् ।
तदुत्पत्तिहेतुम् आह -
निद्रेति
॥ ३९ ॥