क्रियाकारकफलात्मनः संसारस्य प्रत्येकं सात्त्विकादिभेदेन त्रैविध्यम् उक्त्वा संसारान्तर्भूतमेव किञ्चित् गुणत्रयास्पृष्टमपि क्वचित् भविष्यति इति आशङ्क्य आह -
अथेति ।
संसारस्य सर्वस्यैव गुणत्रयसंस्पृष्टत्वं प्रकरणम् । अन्यद्वा अप्राणि इत्यत्र अप्राणिशब्देन प्रसिद्ध्या स्थावरादि गृह्यते
॥ ४० ॥