श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ ४३ ॥
शौर्यं शूरस्य भावः, तेजः प्रागल्भ्यम् , धृतिः धारणम् , सर्वावस्थासु अनवसादः भवति यया धृत्या उत्तम्भितस्य, दाक्ष्यं दक्षस्य भावः, सहसा प्रत्युत्पन्नेषु कार्येषु अव्यामोहेन प्रवृत्तिः, युद्धे चापि अपलायनम् अपराङ्मुखीभावः शत्रुभ्यः, दानं देयद्रव्येषु मुक्तहस्तता, ईश्वरभावश्च ईश्वरस्य भावः, प्रभुशक्तिप्रकटीकरणम् ईशितव्यान् प्रति, क्षात्रं कर्म क्षत्रियजातेः विहितं कर्म क्षात्रं कर्म स्वभावजम् ॥ ४३ ॥

शौर्यमिति ।

शूरस्य भावः विक्रमः - बलवत्तरानपि प्रहर्तुम् प्रवृत्तिः । प्रागल्भ्यं - परैः अघर्षणीयत्वम् ।

महत्यामपि विपदि देहेन्द्रियोत्तम्भनी चित्तवृत्तिः धृतिः इति व्याचष्टे -

सर्वावस्थास्विति ।

दक्षस्य भावमेव विभजते-

सहसेति ।

स्वभावस्तु पूर्ववत्

॥ ४३ ॥