शौर्यमिति ।
शूरस्य भावः विक्रमः - बलवत्तरानपि प्रहर्तुम् प्रवृत्तिः । प्रागल्भ्यं - परैः अघर्षणीयत्वम् ।
महत्यामपि विपदि देहेन्द्रियोत्तम्भनी चित्तवृत्तिः धृतिः इति व्याचष्टे -
सर्वावस्थास्विति ।
दक्षस्य भावमेव विभजते-
सहसेति ।
स्वभावस्तु पूर्ववत्
॥ ४३ ॥