शमादिपरिचर्यान्तकर्मणां विभज्य उक्तानाम् अभ्युदयं फलम् आदौ उपन्यस्यति-
एतेषामिति ।
स्वभावतः - विहितत्वादेव मोक्षापेक्षाम् अन्तरेण अनुष्ठानात् इत्यर्थः ।
तत्र प्रमाणम् आह -
वर्णाः इति ।
शेषशब्देन भुक्तकर्मणः अतिरिक्तं कर्म अनुशयशब्दितम् उच्यते । प्रत्येकं देशादिभिः विशिष्टशब्दः सम्बध्यते । आदिशब्देन ‘तद्यथा आम्रे फलार्थे निर्मिते छायागन्धौ अनूत्पद्येते, एवं धर्मं चर्यमाणम् अर्थाः अनूत्पद्यन्ते । न धर्म हानिः भवति । ‘ इति स्मृतिः गृह्यते ।
इतश्च उक्तानां कर्मणां स्वर्गफलत्वं युक्तम् इत्याह -
पुराणे चेति ।
उक्तं हि -
“यस्तु सम्यक् करोत्येवं गृहस्थः परमं विधिम् ।
तद्वर्णबन्धमुक्तोऽसौ लोकान् आप्नोत्यनुत्तमान्“ इति ।
“ यस्त्वेतां नियतः चर्यां वानप्रस्थश्चरेन्मुनिः ।
स दहत्यग्निवद्दोषान् जयेल्लोकांश्च शाश्वतान् ॥“ इति ।
“मोक्षाश्रमो यश्चरते यथोक्तं शुचिः सुसङ्कल्पितबुद्धियुक्तः ।
अनिन्धनज्योतिरिव प्रशान्तं स ब्रह्मलोकं श्रयते द्विजातिः ॥ “
इति च । “सर्व एते पुण्यलोका भवन्ति" इति श्रुतिः चकारार्थः ।
यदि पुनः मोक्षापेक्षया उक्तानि कर्माणि अनुष्ठीयेरन् , तदा मोक्षफलत्वं तेषां सेत्स्यति इत्याह-
कारणान्तरादिति ।
तदेव कारणान्तरं, यत् मोक्षापेक्षया तेषाम् अनुष्ठानम् ।