श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रेयान्स्वधर्मो विगुणः
परधर्मात्स्वनुष्ठितात्
स्वभावनियतं कर्म
कुर्वन्नाप्नोति किल्बिषम् ॥ ४७ ॥
श्रेयान् प्रशस्यतरः स्वो धर्मः स्वधर्मः, विगुणोऽपि इति अपिशब्दो द्रष्टव्यः, परधर्मात्स्वभावनियतं स्वभावेन नियतम् , यदुक्तं स्वभावजमिति, तदेवोक्तं स्वभावनियतम् इति ; यथा विषजातस्य कृमेः विषं दोषकरम् , तथा स्वभावनियतं कर्म कुर्वन् आप्नोति किल्बिषं पापम् ॥ ४७ ॥

ननु युद्धादिलक्षणं स्वधर्मं कुर्वन्नपि हिंसाधीनं पापं प्राप्नोति तत् कथं स्वधर्मः श्रेयान् इति ? तत्र आह -

स्वभावेति ।

स्वकीयं वर्णाश्रमं निमित्तीकृत्य विहितं स्वभावजम् इति अधस्तात् उक्तम् इत्याह -

यदुक्तमिति ।

विग्रहात्मकमपि विहितं कर्म कुर्वन् पापं न आप्नोति इति अत्र दृष्टान्तम् आह -

यथेति

॥ ४७ ॥