श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
स्वभावनियतं कर्म कुर्वाणो विषजः इव कृमिः किल्बिषं आप्नोतीति उक्तम् ; परधर्मश्च भयावहः इति, अनात्मज्ञश्च हि कश्चित्क्षणमपि अकर्मकृत्तिष्ठति’ (भ. गी. ३ । ५) इतिअतः
स्वभावनियतं कर्म कुर्वाणो विषजः इव कृमिः किल्बिषं आप्नोतीति उक्तम् ; परधर्मश्च भयावहः इति, अनात्मज्ञश्च हि कश्चित्क्षणमपि अकर्मकृत्तिष्ठति’ (भ. गी. ३ । ५) इतिअतः

इतश्च विहितं कर्म दोषवदपि कर्तव्यं, प्रकारान्तरासम्भवात् , इति उक्तानुवादपूर्वकं कथयति-

स्वभावेत्यादिना ।

न हि कृमिः विषजः विषनिमित्तं मरणं प्रतिपद्यते । तथा अयम् अधिकृतः पुरुषः दोषवदपि विहितं कर्म कुर्वन् पापं न आप्नोति इति उक्तम् इत्यर्थः । तर्हि दोषरहितमेव भिक्षाटनादि सर्वैः अनुष्ठीयताम् ।

अतः न पापप्राप्त्याशङ्का इति आशङ्क्य आह -

परेति ।

उक्तम् इति अनुवर्तते ।

तर्हि पापप्राप्तिशङ्कां परिहर्तुम् अकर्मनिष्ठत्वमेव सर्वेषां स्यात् इति आशङ्क्य, ज्ञानाभावात् नैवम् इत्याह -

अनात्मज्ञ इति ।

पूर्ववत् अत्रापि सम्बन्धः ।

प्रकारान्तरासम्भवकृतं फलम् आह -

अत इति ।

सह जायते इति सहजं - स्वभावनियतं नित्यं कर्म ।