श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सहजं कर्म कौन्तेय
सदोषमपि त्यजेत्
सर्वारम्भा हि दोषेण
धूमेनाग्निरिवावृताः ॥ ४८ ॥
सहजं सह जन्मनैव उत्पन्नम्किं तत् ? कर्म कौन्तेय सदोषमपि त्रिगुणात्मकत्वात् त्यजेत्सर्वारम्भाः आरभ्यन्त इति आरम्भाः, सर्वकर्माणि इत्येतत् ; प्रकरणात् ये केचित् आरम्भाः स्वधर्माः परधर्माश्च, ते सर्वे हि यस्मात्त्रिगुणात्मकत्वम् अत्र हेतुःत्रिगुणात्मकत्वात् दोषेण धूमेन सहजेन अग्निरिव, आवृताःसहजस्य कर्मणः स्वधर्माख्यस्य परित्यागेन परधर्मानुष्ठानेऽपि दोषात् नैव मुच्यते ; भयावहश्च परधर्मः शक्यते अशेषतः त्यक्तुम् अज्ञेन कर्म यतः, तस्मात् त्यजेत् इत्यर्थः

तत् विहितत्वात् ऩिर्देषमपि हिंसात्मकतया सदोषम् इत्यत्र हेतुम् आह -

त्रिगुणेति ।

सत्त्वादिगुणत्रयारब्धतया हिंसादिदोषवदपि कर्म विहितम् अत्याज्यम् इत्यर्थः ।

कर्मणां दोषवत्त्वं प्रपञ्चयति -

सर्वेति ।

आरम्भशब्दस्य कर्मव्युत्पत्त्या स्वपरसर्वकर्मार्थत्वे कर्मणां प्रकृतत्वं हेतुम् आह -

प्रकरणादिति ।

दोषेण इत्यादि व्याचष्ठे -

ये केचिदिति ।

ते सर्वे दोषेण आवृताः इति सम्बन्धः ।

सर्वकर्मणां दोषावृतत्वे हिशब्दोपात्तं यस्मात् इत्युक्तं हेतुमेव अभिनयति -

त्रिगुणात्मकत्वमिति ।

स्वभावनियतस्य कर्मणः दोषवत्त्वात् , तत्त्यागद्वारा परधर्मम् आतिष्ठमानस्यापि नैव दोषात् विमोकः सम्भवति । न च परधर्मः अनुष्ठातुं शक्यते भयावहत्वात् । न च तर्हि कर्मणः अशेषतः अननुष्ठानमेव, अज्ञस्य अशेषकर्मत्यागायोगात् ।

अतः सहजं कर्म सदोषमपि न त्याज्यम् इति वाक्यर्थम् आह-

सहजस्येति ।