श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सहजं कर्म कौन्तेय
सदोषमपि त्यजेत्
सर्वारम्भा हि दोषेण
धूमेनाग्निरिवावृताः ॥ ४८ ॥
किम् अशेषतः त्यक्तुम् अशक्यं कर्म इति त्यजेत् ? किं वा सहजस्य कर्मणः त्यागे दोषो भवतीति ? किं अतः ? यदि तावत् अशेषतः त्यक्तुम् अशक्यम् इति त्याज्यं सहजं कर्म, एवं तर्हि अशेषतः त्यागे गुण एव स्यादिति सिद्धं भवतिसत्यम् एवम् ; अशेषतः त्याग एव उपपद्यते इति चेत् , किं नित्यप्रचलितात्मकः पुरुषः, यथा साङ्ख्यानां गुणाः ? किं वा क्रियैव कारकम् , यथा बौद्धानां स्कन्धाः क्षणप्रध्वंसिनः ? उभयथापि कर्मणः अशेषतः त्यागः सम्भवतिअथ तृतीयोऽपि पक्षःयदा करोति तदा सक्रियं वस्तुयदा करोति, तदा निष्क्रियं तदेवतत्र एवं सति शक्यं कर्म अशेषतः त्यक्तुम्अयं तु अस्मिन् तृतीये पक्षे विशेषः नित्यप्रचलितं वस्तु, नापि क्रियैव कारकम्किं तर्हि ? व्यवस्थिते द्रव्ये अविद्यमाना क्रिया उत्पद्यते, विद्यमाना विनश्यतिशुद्धं तत् द्रव्यं शक्तिमत् अवतिष्ठतेइति एवम् आहुः काणादाःतदेव कारकम् इतिअस्मिन् पक्षे को दोषः इतिअयमेव तु दोषःयतस्तु अभागवतं मतम् इदम्कथं ज्ञायते ? यतः आह भगवान् नासतो विद्यते भावः’ (भ. गी. २ । १६) इत्यादिकाणादानां हि असतः भावः, सतश्च अभावः, इति इदं मतम् अभागवतम्अभागवतमपि न्यायवच्चेत् को दोषः इति चेत् , उच्यतेदोषवत्तु इदम् , सर्वप्रमाणविरोधात्कथम् ? यदि तावत् द्व्यणुकादि द्रव्यं प्राक् उत्पत्तेः अत्यन्तमेव असत् , उत्पन्नं स्थितं कञ्चित् कालं पुनः अत्यन्तमेव असत्त्वम् आपद्यते, तथा सति असदेव सत् जायते, सदेव असत्त्वम् आपद्यते, अभावः भावो भवति, भावश्च अभावो भवति ; तत्र अभावः जायमानः प्राक् उत्पत्तेः शशविषाणकल्पः समवाय्यसमवायिनिमित्ताख्यं कारणम् अपेक्ष्य जायते इति एवम् अभावः उत्पद्यते, कारणं अपेक्षते इति शक्यं वक्तुम् , असतां शशविषाणादीनाम् अदर्शनात्भावात्मकाश्चेत् घटादयः उत्पद्यमानाः, किञ्चित् अभिव्यक्तिमात्रे कारणम् अपेक्ष्य उत्पद्यन्ते इति शक्यं प्रतिपत्तुम्किञ्च, असतश्च सतश्च सद्भावे असद्भावे क्वचित् प्रमाणप्रमेयव्यवहारेषु विश्वासः कस्यचित् स्यात् , ‘सत् सदेव असत् असदेवइति निश्चयानुपपत्तेः

सहजं कर्म सदोषमपि न त्यजेत् इत्यत्र विचारम् अवतारयति -

किमिति ।

न हि कश्चिदिति न्यायात् इति शेषः । दोषः - विहितनित्यत्यागे प्रत्यवायः ।

सन्दिग्धस्य सप्रयोजनस्य विचार्यत्वात् , उक्ते सन्देहे प्रयोजनं पृच्छति -

किं चात इति ।

तत्र आद्यम् अऩूद्य फलं दर्शयति -

यदीति ।

अशक्यार्थानुष्ठानस्य गुणत्वेन प्रसिद्धत्वात् । प्रसिद्धं हि महोदधिम् अगस्त्यस्य चुलुकीकृत्य पिबतो गुणवत्त्वम् । तदाह -

एवं तर्हि इति ।

अशेषकर्मत्यागस्य गुणवत्त्वेऽपि प्रागुक्तन्यायेन तदयोगात् तस्य अशक्यानुष्ठानता इति शङ्कते -

सत्यमिति ।

चोद्यमेव विवृण्वन् आद्यं विभजते -

किमिति ।

सत्त्वादिगुणवत् आत्मनः नित्यप्रचलितत्वेन अशेषतः तेन न कर्म त्यक्तुं शक्यम् ; नापि रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञानां क्षणध्वंसिनां स्कन्धानाम् इव क्रियाकारकभेदाभावात् कारकस्यैव आत्मनः क्रियात्वम् इत्युक्ते कर्म अशेषतः त्यक्तुं शक्यम् , उभयत्रापि स्वभावभङ्गात् इत्याह -

उभयथेति ।

पक्षद्वयानुरोधेन अशेषकर्मत्यागायोगे, वैशेषिकः चोदयति -

अथेति ।

कदाचित् आत्मा सक्रियः, निष्क्रियश्च कदाचित् , इति स्थिते फलितम् आह -

तत्रेति ।

उक्तमेव पक्षं पूर्वोक्तपक्षद्वयात् विशेषदर्शनेन विशदयति -

अयं त्विति ।

आगमापायित्वे क्रियायाः, तद्वतः द्रव्यस्य कथं स्थायिता ? इति अशङ्क्य, आह -

शुद्धमिति ।

क्रियाशक्तिमत्त्वेऽपि क्रियावत्त्वाभावे कथं कारकत्वम् ? क्रियां कुर्वत् कारणं कारकम् इति अभ्युपगभात् इति आशङ्क्य, आह -

तदेवेति ।

क्रियाशक्तिमदेव कारकं न क्रियाधिकरणं, परस्पराश्रयात् इत्यर्थः ।

वैशेषिकपक्षे दोषाभावात् अस्ति सर्वैः स्वीकार्यता इति उपसंहरति -

इत्यस्मिन्निति ।

भगवन्मतानुसारित्वाभावात् अस्य पक्षस्य त्याज्यता इति दूषयति-

अयमेवेति ।

भगवन्मताननुसारित्वम् अस्य अप्रामाणकम् इति शङ्कते-

कथमिति ।

भगवद्वचनम् उदाहरन् परपक्षस्य तदनुगुणत्वाभावम् आह -

यत इति ।

परेषामपि मतम् एतदनुगुणमेव किं न स्यात् इति आशङ्क्य, आह -

काणादानां हीति ।

भगवन्मतानुगुणत्वाभावेऽपि न्यायानुगुणत्वेन दोषरहितं काणादानां मतम् उपादेयमेव तर्हि काणादमतविरोधात् उपेक्ष्यते भगवन्मतम् इति शङ्कते -

अभागवतत्वेऽपि इति ।

न्यायवत्त्वम् असिद्धम् इति दूषयति -

उच्यत इति ।

सर्वप्रमाणानुसारिणः मतस्य न तद्विरोधिता इति आक्षिपति -

कथमिति ।

वैशेषिकमतस्य सर्वप्रमाणविरोधं प्रकटयन् आदौ तन्मतम् अनुवदति-

यदीति ।

असतः जन्म, सतश्च नाशः इति स्थिते फलितम् आह -

तथा चेति ।

उक्तमेव वाक्यं व्याकरोति -

अभाव इति ।

सदेव असत्त्वम् आपद्यते इत्युक्तं व्याचष्टे -

भावश्चेति ।

इति मतमिति शेषः ।

तत्रैव अभ्युगमान्तरम् आह -

तत्रेति ।

प्रकृतं मतं सप्तम्यर्थः । इति अभ्युपगम्यते इति शेषः ।

परकीयम् अभ्युपगमं दूषयति -

न चेति ।

एवमिति - परपरिभाषानुसारेण इत्यर्थः । अदर्शनात् - उत्पत्तेः अपेक्षायाश्च इति शेषः ।

कथं तर्हि त्वन्मतेऽपि घटादीनां कारणापेक्षाणाम् उत्पत्तिः, न हि भावानां कारणापेक्षा उत्पत्तिर्वा युक्ता, इति तत्राह -

भावेति ।

धटादीनाम् अस्मत्पक्षे प्रागपि कारणात्मना सतामेव अव्यक्तनामरूपाणाम् अभिव्यक्तिसामग्रीम् अपेक्ष्य पृथक् अभिव्यक्तिसम्भवात् न किञ्चित् अवद्यम् इत्यर्थः ।

असत्कार्यवादे दोषान्तरम् आह -

किञ्चेति ।

परमते मानमेयव्यवहारे क्वचिदपि विश्वासः न कस्यचित् इत्यत्र हेतुमाह -

सत्सदेवेति ।

न हि सत् तथैव इति निश्चितं, तस्यैव पुनः असत्त्वप्राप्तेः इष्टत्वात् , न च असत् तथैवेति निश्चयः, तस्यैव सत्त्वप्राप्तेः उपगमात् । अतः यत् मानेन सत् असद्वा निर्णीतं तत् तथेति विश्वासाभावात् मानवैफल्यम् इत्यर्थः ।