श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सहजं कर्म कौन्तेय
सदोषमपि त्यजेत्
सर्वारम्भा हि दोषेण
धूमेनाग्निरिवावृताः ॥ ४८ ॥
किञ्च, उत्पद्यते इति द्व्यणुकादेः द्रव्यस्य स्वकारणसत्तासम्बन्धम् आहुःप्राक् उत्पत्तेश्च असत् , पश्चात् कारणव्यापारम् अपेक्ष्य स्वकारणैः परमाणुभिः सत्तया समवायलक्षणेन सम्बन्धेन सम्बध्यतेसम्बद्धं सत् कारणसमवेतं सत् भवतितत्र वक्तव्यं कथम् असतः स्वं कारणं भवेत् सम्बन्धो वा केनचित् स्यात् ? हि वन्ध्यापुत्रस्य स्वं कारणं सम्बन्धो वा केनचित् प्रमाणतः कल्पयितुं शक्यते

इतश्च असत्कार्यवादः न युक्तिमान् इत्याह -

किञ्चेति ।

तदेव हेत्वन्तरं स्फोरयितुं परमतम् अनुवदति -

उत्पद्यत इतीति ।

परकीयं वचनमेव व्याचष्टे -

प्रागिति ।

सम्बद्धं सत् इति अनेन कारणसम्बन्धे सति कार्यस्य सत्तासम्बन्धः भवति इति उक्तम् ।

तदेव स्फुटयति -

कारणेति ।

परमतमेव अनुभाष्य दूषयति -

तत्रेति ।

कार्यस्य असतोऽपि कारणं सम्भवति ।

तस्य च कार्येण सम्बन्धः सिद्ध्यति इति आशङ्क्य आह -

न हीति ।

असत्त्वादेव असतः सम्बन्धाभावे करणस्य सतोऽपि न तेन सम्बन्धः अनुमातुं शक्यते ; सदसतोः सम्बन्धाभावात् इत्यर्थः ।