प्रागभावस्य घटभावानभ्युपगमात् अनुमानं सिद्धसाधनम् इति शङ्कते -
नन्विति ।
अभावस्य भावापत्त्यनभ्युपगमे भावस्यैव भावापत्तिः इति अनिष्टं स्यात् इति दूषयति -
भावस्यैवेति ।
तस्य तदापत्तेः अयोग्यत्वे दृष्टान्तम् आह -
यथेति ।
अभावस्य भावापत्तिः अनिष्टा इति दार्ष्टान्तिकं स्पष्टयति -
एतदपीति ।
आरम्भवादोक्तं दोषं परिणामवादेऽपि सञ्चारयति -
साङ्ख्यस्येति ।
धर्मः - परिणामः । असतः अपूर्वपरिणामस्य उत्पत्तेः, सतश्च पूर्वपरिणामस्य नाशात् , असत् असदेव, सच्च सदेव इति व्यवस्था अत्रापि दुर्घटा इत्यर्थः । ननु कार्यं कारणात्मना प्रागपि सदेव अव्यक्तं कारकव्यापारात् व्यज्यते । तेन व्यक्त्यव्यक्त्योः जन्मनाशव्यवहारात् मतान्तरात् विशेषसिद्धिः ।
तत्र आह -
अभिव्यक्तीति ।
कारकव्यापारात् प्राक् अनभिव्यक्तिवत् अभिव्यक्तेः सत्त्वम् असत्त्वं वा ? सत्त्वे कारकव्यापारवैयर्थ्यात् तद्विषयप्रमाणविरोधः । द्वितोये पक्षान्तरवत् अत्यन्तासतः तन्निर्वर्त्यत्वायोगे स एव दोषः । कारकव्यापारात् ऊर्ध्वं व्यक्तिवत् अव्यक्तेरपि सत्त्वे स एव दोषः । असत्त्वेऽपि सतो असत्त्वानङ्गीकारात् मानमेयव्यवहारे न क्कापि विश्वासः । सत् सदेव, असत् असदेव इति अनिर्धारणात् इत्यर्थः ।
साङ्ख्यपक्षप्रतिक्षेपन्यायेन पक्षान्तरमपि प्रतिक्षिप्तम् इत्याह -
एतेनेति ।
कारणस्यैव कार्यरूपापत्तिः उत्पत्तिः । तस्यैव तद्रूपत्यागेन स्वरूपापत्तिः नाशः इति एतदपि न । पूर्वरूपे स्थिते नष्टे च, परस्य पररूपापत्तेः अनुपपत्तेः । न च प्राप्तं रूपं स्थितेन नष्टेन वा त्यक्तुं शक्यम् इत्यर्थः ।