श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सहजं कर्म कौन्तेय
सदोषमपि त्यजेत्
सर्वारम्भा हि दोषेण
धूमेनाग्निरिवावृताः ॥ ४८ ॥
पारिशेष्यात् सत् एकमेव वस्तु अविद्यया उत्पत्तिविनाशादिधर्मैः अनेकधा नटवत् विकल्प्यते इतिइदं भागवतं मतम् उक्तम् नासतो विद्यते भावः’ (भ. गी. २ । १६) इत्यस्मिन् श्लोके, सत्प्रत्ययस्य अव्यभिचारात् , व्यभिचाराच्च इतरेषामिति

आरम्भवादे परिणामवादे च  उत्पत्त्यादिव्यवहारानुपपत्तौ परिशेषायातं दर्शयति-

पारिशेष्यादिति ।

एकस्य अनेकविधविकल्पानुपपत्तिम् आशङ्क्य, आह -

अविद्ययेति ।

अस्यापि मतस्य भगवन्मतानुरोधित्वाभावात् अविशिष्टा त्याज्यता इति आशङ्क्य आह -

इतीदमिति ।

उक्तमेव भगवन्मतं विशदयति -

सत्प्रत्ययस्येति ।

सत् एकमेव वस्तु स्यात् इति शेषः ।

इतरेषां विकारप्रत्ययानां रजतादिधीवत् अर्थव्यभिचारात् , अविद्यया तदेव सद्वस्तु अनेकधा विकल्प्यते इत्याह -

व्यभिचाराच्चेति ।

इति मतं श्लोके दर्शितम् इति सम्बन्धः ।